Chapter 17: Shraddhatraya-Vibhaga Yoga
28 Verses
Krishna explains that our faith and habits can be of three types. He discusses how the food we choose, the way we give to charity, and the way we speak all reflect whether we are in a state of goodness, passion, or ignorance.
Verse 1
अर्जुन उवाच | ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: | तेषां निष्ठा तु का कृष्ण सत्वमाहो रजस्तम: ॥1॥
Verse 2
श्रीभगवानुवाच | त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा | सात्विकी राजसी चैव तामसी चेति तां शृणु ॥2॥
Verse 3
सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत | श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: ॥3॥
Verse 4
यजन्ते सात्विका देवान्यक्षरक्षांसि राजसा: | प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना: ॥4॥
Verse 5
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: |
दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥5॥
दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: ॥5॥
Verse 6
कर्षयन्त: शरीरस्थं भूतग्राममचेतस: | मां चैवान्त:शरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥6॥
Verse 7
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय: | यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥7॥
Verse 8
आयु:सत्वबलारोग्यसुखप्रीतिविवर्धना: | रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्विकप्रिया: ॥8॥
Verse 9
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: | आहारा राजसस्येष्टा दु:खशोकामयप्रदा: ॥9॥
Verse 10
यातयामं गतरसं पूति पर्युषितं च यत् | उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥10॥
Verse 11
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते | यष्टव्यमेवेति मन: समाधाय स सात्विक: ॥11॥
Verse 12
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् | इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥12॥
Verse 13
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् | श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥13॥
Verse 14
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥14॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥14॥
Verse 15
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् | स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥15॥
Verse 16
मन: प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: |
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥16॥
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥16॥
Verse 17
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: | अफलाकाङ्क्षिभिर्युक्तै: सात्विकं परिचक्षते ॥17॥
Verse 18
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् | क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥18॥
Verse 19
मूढग्राहेणात्मनो यत्पीडया क्रियते तप: | परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥19॥
Verse 20
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे | देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥20॥
Verse 21
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: | दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥21॥
Verse 22
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते | असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥22॥
Verse 23
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: | ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा ॥23॥
Verse 24
तस्माद् ॐ इत्युदाहृत्य यज्ञदानतप:क्रिया: | प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् ॥24॥
Verse 25
तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया: | दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: ॥25॥
Verse 26
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते | प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते ॥ 26 ॥
Verse 27
यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते | कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥27॥
Verse 28
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥28॥
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥28॥