Chapter 13: Kshetra-Kshetrajna Yoga
34 Verses
Krishna describes the 'Field' (the body and the world) and the 'Knower of the Field' (the soul). He explains how our senses work and how we can use our intelligence to understand the spirit within us.
Verse 1
अर्जुन उवाच | प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च | एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥1॥
Verse 2
श्रीभगवानुवाच | इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते | एतद्यो वेत्ति तं प्राहु: क्षेत्रज्ञ इति तद्विद: ॥2॥
Verse 3
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत | क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥3॥
Verse 4
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् | स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥4॥
Verse 5
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै: पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: || 5 ||
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: || 5 ||
Verse 6
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च | इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः || 6 ||
Verse 7
इच्छा द्वेष: सुखं दु:खं सङ्घातश्चेतना धृति: |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥7॥
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥7॥
Verse 8
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् | आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ॥8॥
Verse 9
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च |
जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥9॥
जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥9॥
Verse 10
असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु | नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥10॥
Verse 11
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी | विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥11॥
Verse 12
अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम् | एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥12॥
Verse 13
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्रुते | अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥13॥
Verse 14
सर्वत: पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् | सर्वत: श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥14॥
Verse 15
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥15॥
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥15॥
Verse 16
बहिरन्तश्च भूतानामचरं चरमेव च | सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥16॥
Verse 17
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥17॥
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥17॥
Verse 18
ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते | ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥18॥
Verse 19
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासत: |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥19॥
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥19॥
Verse 20
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि | विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥20॥
Verse 21
कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते | पुरुष: सुखदु:खानां भोक्तृत्वे हेतुरुच्यते ॥21॥
Verse 22
पुरुष: प्रकृतिस्थो हि भुङक्ते प्रकृतिजान्गुणान् | कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥22॥
Verse 23
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वर: | परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष: पर: ॥23॥
Verse 24
य एवं वेत्ति पुरुषं प्रकृतिं च गुणै: सह | सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥24॥
Verse 25
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना | अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥25॥
Verse 26
अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते | तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: ॥26॥
Verse 27
यावत्सञ्जायते किञ्चित्सत्वं स्थावरजङ्गमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 27 ॥
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 27 ॥
Verse 28
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् | विनश्यत्स्वविनश्यन्तं य: पश्यति स पश्यति ॥28॥
Verse 29
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥29॥
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥29॥
Verse 30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वश: | य: पश्यति तथात्मानमकर्तारं स पश्यति ॥30॥
Verse 31
यदा भूतपृथग्भावमेकस्थमनुपश्यति | तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥31॥
Verse 32
अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥32॥
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥32॥
Verse 33
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥33॥
Verse 34
यथा प्रकाशयत्येक: कृत्स्नं लोकमिमं रवि: | क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥34॥